|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.42. अध्यायः 042
Mahabharata - Sabha Parva - Chapter Topics
श्रीकृष्णस्याग्रपूजामसहमानानां शिरसि पदमाहितमिति सहदेववचनश्रवणेन शिशुपाल स्य कोपोदयः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
`वैशम्पायन उवाच॥
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम्।
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा॥ 2-42-1(13064)
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम्।
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु॥ 2-42-2(13065)
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि।
तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ॥ 2-42-3(13066)
यो वा सहते कश्चिद्राज्ञां सबलवाहनः।
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम्॥ 2-42-4(13067)
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे। 2-42-5(13068)
वैशम्पायन उवाच॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्॥ 2-42-5x(1463)
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे।
एवमुक्ते सुनीथस्य सहदेवेन केशवे॥ 2-42-6(13069)
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते।
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान्॥ 2-42-7(13070)
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान्।
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः॥ 2-42-8(13071)
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः।
सहदेवेन राजानो यदुक्तं केशवं प्रति।
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत॥ ॥ 2-42-9(13072)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|